NGO-UID: WB/2025/0513191
Discover more thought-provoking insights on our Medium posts – where ideas come to life! (Click here).
Excellence of the Mahākavi-Māghaḥ
महाकविः माघः, कविरयं समयानुरूपं विषयानुरूपं शब्दसमूहम् एवाङ्गीकरोति । साधारणप्रश्नोत्तरकाले साधारणी, वाद-विवाद-समये च तदनुरूपां शैलीम् एव । परं वादविवाद-समयेऽपि कविः नाऽतिजटिलां नाऽपि चाऽतिकठिनां भाषाम् अङ्गीकरोति । तथाहि-
अनृतां गिरं न गदसीति जगति पटहैर्विघुष्यसे।
निन्द्यमथ च हरिमर्चयतः तव कर्मणैव विकत्यसत्यता॥
माघस्य रचनायां सारल्यम्, अलङ्काराणां नूतनत्वं श्लेषस्यौपयिकत्वं चित्रालङ्कारणां वैचित्र्यं सर्वत्रैव समुपलभ्यते। प्रतिस्थलं वर्णितान् अप्य् उपमाऽतिशयोक्ति-रूपकोत्प्रेक्षा-दृष्टान्ताऽऽदीनाम् अलङ्काराणां समुचितः सन्निवेशः काम् अप्य् अद्वितीयां छटां विदधाति। तथाहि--
अपशंकमङ्कपरिवर्तनोचिताश्चलिताः पुरः पतिमुपैतुमात्मजाः।
अनुरोदितीव करुणेन पत्रिणां विरुतेन वत्सलतयैव निम्नगाः॥
श्लोकेस्मिन् उत्प्रेक्षा कस्याऽपि प्रेक्षावतः चेतसि अनिर्वचनीयताम् उपस्थापयति । पदलालित्यम् अर्थ-गौरवम् च कवेः काव्ये प्रतिपदं दरीदृश्यते ।
अनुप्रासप्रयोगे तु असौ सर्वान् अतिक्रामति । अनेनानुप्रासप्रयोग-सिद्धहस्तेन जाज्वल्यमानम् उदाहरणं संस्थापितम् अधोलिखिते पद्ये पदलालित्यम् अपि रमणीयम् उपपन्नम्-
मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया।
मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे॥ इति
जानाति वा केन कारणेन महाकविः माघः घन्टामाघः इति नाम्ना ख्यातः?
उदयति विततोर्ध्वरश्मिरज्जावहिमरुचौ हिमधाम्नि याति चास्तम्।
वहति गिरिरयं विलम्बि-घण्टाद्वयपरिवारित-वारणेन्द्रलीलाम्।
(अस्मिन् पद्ये कविः रैवतकं पर्वतम् उभयतः सूर्येन्दु-रूपविलम्बिघण्टा-द्वय-परिवारित-वारणेन्द्रलीलाम् आवहन्तम् इवाऽऽकलयति । अत एव माघो ` घण्टामाघः' इति नाम्ना प्रसिद्धिम् उपगतः।)
कथ्यते 'नवसर्गे गते माघे नवशब्दो न विद्यते'। तथा कथनेऽयमेव हेतुर्यत्तत्र नवनवानां शब्दानां बाहुल्येन प्रयोगकृतोऽस्ति । नवतामेव माघो रमणीयताया स्वरूपं मन्यते । कथयति सः - 'क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः'।
समालोचकाः कथयन्ति यन्माघस्य भाषायां पाण्डित्येन सह परिष्कारः, कोमलतया सह माधुर्यं, ओजसा सह सशक्तता, अर्थगाम्भीर्येण सह स्फूतिरपि द्रष्टुं शक्यते । यथा हि -
मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया।
मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे।।
तस्य हि सूक्ष्मेक्षिकाऽपि सर्वानेवातिशेते । स यदेव कथयति तस्य मूलमेव स्पृशति । यथा हि -
प्रहरकमपनीय स्वं निदिद्रासतोच्चैः, प्रतिपदमुपहुतः केनचिज्जागृहीति।
मुहुरविशदवर्णादददपि गिरमन्तर्बुध्यते नो मनुष्यः ।।
कुमुदवनमपश्रि श्रीमदम्भोजदण्डं त्यजति मुदमुलूकः प्रीतिमश्चक्रवाकः ।
उदयमहिमरश्मिर्याति शीताशुरस्तं, हतविधिलसितानां हा विचित्रो विपाकः।
माघेन काव्ये बहूनिच्छन्दांसि प्रयुक्तानि । तेषु हि वंशस्थवृत्तमतीव प्रियम्। माघाय हि अलङ्कृतकाव्यपरम्परा भारवितः प्राप्ताऽऽसीद्या सा साधु निरवाहयत् । तस्य प्रत्येकं वर्णनमलङ्कृतभाषायामेव लभ्यते । सः यद्यपि इतिवृत्तनिर्वाहे स्खलति, यत्र कुत्र तु प्राकरणिकवर्णनस्य मूलकथया सह नास्ति कोऽपि सम्बन्धस्तथापि वर्णनाचातुर्या स निष्प्रयोजनानपि विषयान् प्रयोजनसम्बद्धामिव करोति । वस्तुतञ्चतुर्थसर्गादारभ्य त्रयोदशसर्गपर्यन्तो विषयो मूलकथया सह नितान्तमेवासम्बद्धः । इतिवृत्तेन सह तु प्रथम-द्वितीय-चतुर्दश-विंशतिसर्गा एव सम्बद्धाः । वीररसाप्लाविते इतिवृत्ते गौणेन शृङ्गारवर्णनेन काव्यस्य कलेवरवृद्धिरेव भवति नान्यत् । वस्तुतस्तु अङ्गीभूतेन शृङ्गारेण अङ्गभूतो वीर उद्वेजित इव दृश्यते तत्र। यदा कदा तस्य प्रकृतिचित्रणमपि कृत्त्रिभमलङ्कारभाराक्षिप्तमिव दृश्यते। तस्य प्रकृतिचित्रणमुद्दीपरूपेणैव कृतं दृश्यते। किन्तु ग्राम्यजीवनचित्रणं तु नितान्तं स्वाभाविकमपि दृश्यते। तस्य वर्णनसौन्दर्यं चमत्कारविधानञ्च चरमोत्कर्षतां स्पृशति । नारदावतरणं स इत्थं वर्णयति -
चयस्त्विषामित्यवधारितं पुरा ततः शरीरीति विभाविताकृतिम्।
विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारद इत्यबोधि सः ।।
तथैव -
गतं तिरश्चीनमनूरुसारथेः प्रसिद्धमूर्ध्वज्वलनं हविभुजः।
पतत्यधो धाम विसारि सर्वतः किमेतदित्याकुलमीक्षितं जनैः॥
भवद्भिः ज्ञायते वा?
शिशुपालवधमपहाय अन्यः कोऽपि माघस्य ग्रन्थः नोपलभ्यते । शिशुपालवधस्य कथावस्तु महाभारतात् संगृहीतम् । यदुनन्दनोऽत्र नेता, वीरस्तु प्रधानरसः । इन्द्रेण प्रेषितो नारदः द्वारकायां श्रीकृष्णमुपगम्य शिशुपालवधाय प्रोत्साहयति । तस्मिन्नेव समये श्रीकृष्णः युधिष्ठिरेण राजसूययागाय आहूतो भवति । कार्यद्वयाकुलो वासुदेवः उद्धवेन बलरामेण च समं संमन्त्र्य राजसूयं गच्छति तत्र शिशुपालं निहन्ति च ।
More on our Facebook Page (Click here).