This page is under process!
Please come later
न्यायसूत्राणि
NGO-UID: WB/2025/0513191
This page is under process!
Please come later
न्यायसूत्राणि
प्रथमम् आह्निकम्
अनुबन्धचतुष्टयप्रकरणम्
पदार्थोद्देशसूत्रम्
१.१.१ प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्त-सिद्धान्तावयव-तर्क-निर्णय-वाद-जल्प-वितण्डाहेत्वाभास-च्छल-जाति-निग्रहस्थानानाम्तत्त्वज्ञानात् निःश्रेयसाधिगमः
१.१.२ दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानाम् उत्तरोत्तरापाये तदनन्तरापायात् अपवर्गः
प्रमाणप्रकरणम्
प्रमाण-उद्देश-सूत्रम्
१.१.३ प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि
प्रत्यक्षलक्षणम्
१.१.४ इन्द्रियार्थसन्निकर्षोत्पन्नम् ज्ञानम् अव्यपदेश्यम् अव्यभिचारि व्यवसायात्मकम् प्रत्यक्षम्
अनुमानलक्षणम्
१.१.५ अथ तत्पूर्वकं त्रिविधम् अनुमानं पूर्ववत् शेषवत् सामान्यतोदृष्टं च
उपमानलक्षणम्
१.१.६ प्रसिद्धसाधर्म्यात् साध्यसाधनम् उपमानम्
शब्दलक्षणम्
१.१.७ आप्तोपदेशः शब्दः
शब्दभेदः
१.१.८ सः द्विविधः दृष्टादृष्टार्थत्वात्